अध्याय 8 - श्लोक 19

भूतग्रामः स एवायं भूत्वा भूत्वा प्रलीयते ।
रात्र्यागमेऽवशः पार्थ
प्रभवत्यहरागमे ॥ १९ ॥

bhūtagrāmaḥ sa evāyaṃ bhūtvā bhūtvā pralīyate .
rātryāgame’vaśaḥ pārtha
prabhavatyaharāgame .. 19 ..


जो पहले कल्पमें था, वही—दूसरा नहीं—यह स्थावर-जङ्गमरूप भूतोंका समुदाय ब्रह्माके दिनके आरम्भमें, बारंबार उत्पन्न हो-होकर दिनकी समाप्ति और रात्रिका प्रवेश होनेपर पराधीन हुआ ही बारंबार लय होता जाता है और फिर उसी प्रकार विवश होकर दिनके प्रवेशकालमें पुनः उत्पन्न होता जाता है ॥ १९ ॥

जिस अक्षरका पहले प्रतिपादन किया था उसकी प्राप्तिका उपाय ‘ओमित्येकाक्षरं ब्रह्म’ इत्यादि कथनसे बतला दिया। अब उसी अक्षरके स्वरूपका निर्देश करनेकी इच्छासे यह बतलाया जाता है कि ‘इस योगमार्गद्वारा अमुक वस्तु मिलती है’—

तात्पर्य पढ़ें

भूतग्रामो भूतसमुदायः स्थावरजङ्गमलक्षणो यः पूर्वस्मिन् कल्पे आसीत् स एव अयं न अन्यो भूत्वा भूत्वा अहरागमे प्रलीयते पुनः पुनः रात्र्यागमे अह्नः क्षये अवशः अस्वतन्त्र एव पार्थ, प्रभवति अवश एव अहरागमे ॥ १९ ॥

यद् उपन्यस्तम् अक्षरं तस्य प्राप्त्युपायो निर्दिष्टः ‘ओमित्येकाक्षरं ब्रह्म’ इत्यादिना। अथ इदानीम् अक्षरस्य एव स्वरूपनिर्दिदिक्षया इदम् उच्यते अनेन योगमार्गेण इदं गन्तव्यम् इति—