नैते सृती पार्थ जानन्योगी मुह्यति कश्चन।
तस्मात्सर्वेषु कालेषु योगयुक्तो भवार्जुन ॥ २७ ॥
तस्मात्सर्वेषु कालेषु योगयुक्तो भवार्जुन ॥ २७ ॥
naite sṛtī pārtha jānanyogī muhyati kaścana.
tasmātsarveṣu kāleṣu yogayukto bhavārjuna .. 27 ..
हे पार्थ! इन उपर्युक्त दोनों मार्गों को इस प्रकार जाननेवाला कि ‘एक पुनर्जन्मरूप संसार को देनेवाला है और दूसरा मोक्ष का कारण है’ कोई भी योगी मोहित नहीं होता। इसलिये हे अर्जुन! तू सब समय योगयुक्त हो अर्थात् समाधिस्थ हो ॥ २७ ॥
योग का माहात्म्य सुन—
तात्पर्य पढ़ें
न एते यथोक्ते सृती मार्गौ पार्थ जानन् संसाराय एका अन्या मोक्षाय च इति योगी न मुह्यति कश्चन कश्चिद् अपि। तस्मात् सर्वेषु कालेषु योगयुक्तः समाहितो भव अर्जुन ॥ २७ ॥
शृणु योगस्य माहात्म्यम्—