तस्मात्सर्वेषु कालेषु मामनुस्मर युध्य च ।
मय्यर्पितमनोबुद्धिर्मामेवैष्यस्यसंशयः
॥ ७ ॥
मय्यर्पितमनोबुद्धिर्मामेवैष्यस्यसंशयः
॥ ७ ॥
tasmātsarveṣu kāleṣu māmanusmara yudhya ca .
mayyarpitamanobuddhirmāmevaiṣyasyasaṃśayaḥ
.. 7 ..
तथा—
इसलिये तू हर समय मेरा स्मरण कर और शास्त्रज्ञानुसार स्वधर्मरूप युद्ध भी कर। इस प्रकार मुझ वासुदेव में जिसके मन-बुद्धि अर्पित हैं, ऐसा तू मुझमें अर्पित किये हुए मन-बुद्धि वाला होकर मुझको ही अर्थात् मेरे यथाचिन्तित स्वरूपको ही प्राप्त हो जायगा, इसमें संशय नहीं है ॥ ७ ॥
तात्पर्य पढ़ें
तस्मात् सर्वेषु कालेषु माम् अनुस्मर यथाशास्त्रं युध्य च युद्धं च स्वधर्मं कुरु मयि वासुदेवे अर्पिते मनोबुद्धी यस्य तव स त्वं मय्यर्पित मनोबुद्धिः सन् माम् एव यथास्मृतम् एष्यसि आगमिष्यसि असंशयो न संशयो अत्र विद्यते ॥ ७ ॥