अध्याय 9 - श्लोक 22

अनन्याश्चिन्तयन्तो मां ये जनाः पर्युपासते।
तेषां नित्याभियुक्तानां योगक्षेमं वहाम्यहम् ॥ २२ ॥

ananyāścintayanto māṃ ye janāḥ paryupāsate.
teṣāṃ nityābhiyuktānāṃ yogakṣemaṃ vahāmyaham .. 22 ..


जो संन्यासी अनन्यभावसे युक्त हुए अर्थात् परमदेव मुझ नारायणको आत्मरूपसे जानते हुए मेरा निरन्तर चिन्तन करते हुए मेरी श्रेष्ठ—निष्काम उपासना करते हैं, निरन्तर मुझमें ही स्थित उन परमार्थज्ञानियोंका योग—क्षेम मैं चलाता हूँ। अप्राप्त वस्तुकी प्राप्तिका नाम योग है और प्राप्त वस्तुकी रक्षाका नाम क्षेम है, उनके ये दोनों काम मैं स्वयं किया करता हूँ।

क्योंकि ‘ज्ञानीको तो मैं अपना आत्मा ही मानता हूँ’ और ‘वह मेरा प्यारा है’ इसलिये वे उपर्युक्त भक्त मेरे आत्मारूप और प्रिय हैं।

पू०—अन्य भक्तोंका योगक्षेम भी तो भगवान् ही चलाते हैं?

उ०—यह बात ठीक है, अवश्य भगवान् ही चलाते हैं; किंतु उसमें यह भेद है कि जो दूसरे भक्त हैं वे स्वयं भी अपने लिये योगक्षेम-सम्बन्धी चेष्टा करते हैं, पर अनन्यदर्शी भक्त अपने लिये योगक्षेम-सम्बन्धी चेष्टा नहीं करते। क्योंकि वे जीने और मरनेमें भी अपनी वासना नहीं रखते, केवल भगवान् ही उनके अवलम्बन रह जाते हैं। अतः उनका योगक्षेम स्वयं भगवान् ही चलाते हैं ॥ २२ ॥

यदि कहो कि अन्य देव भी आप ही हैं, अतः उनके भक्त भी आप ही का पूजन करते हैं तो यह बात ठीक है—

तात्पर्य पढ़ें

अनन्या अपृथग्भूताः परं देवं नारायणम् आत्मत्वेन गताः सन्तः चिन्तयन्तो मां ये जनाः सन्न्यासिनः पर्युपासते, तेषां परमार्थदर्शिनां नित्याभियुक्तानां सतताभियुक्तानां योगक्षेमं योगः अप्राप्तस्य प्रापणं क्षेमः तद्रक्षणं तद् उभयं वहामि प्रापयामि अहम् ।

‘ज्ञानी तु आत्मा एव मे मतम्’ ‘स च मम प्रियः’ यस्मात् तस्मात् ते मम आत्मभूताः प्रियाः च इति।

ननु अन्येषाम् अपि भक्तानां योगक्षेमं वहति एव भगवान्।

सत्यम् एवं वहति एव । किं तु अयं विशेषः अन्ये ये भक्ताः ते स्वात्मार्थं स्वयम् अपि योगक्षेमम् ईहन्ते । अनन्यदर्शिनः तु न आत्मार्थं योगक्षेमम् ईहन्ते न हि ते जीविते मरणे वा आत्मनो गृधिं कुर्वन्ति केवलम् एव भगवच्छरणाः ते । अतो भगवान् एव तेषां योगक्षेमं वहति इति ॥ २२ ॥

ननु अन्या अपि देवताः त्वम् एव चेत् तद्भक्ताः च त्वाम् एव यजन्ते सत्यम् एवम्—