अध्याय 9 - श्लोक 23

येऽप्यन्यदेवताभक्ता यजन्ते श्रद्धयान्विताः ।
तेऽपि मामेव कौन्तेय यजन्त्यविधिपूर्वकम् ॥ २३ ॥

ye’pyanyadevatābhaktā yajante śraddhayānvitāḥ .
te’pi māmeva kaunteya yajantyavidhipūrvakam .. 23 ..


जो कोई अन्य देवों के भक्त —अन्य देवताओं में भक्ति रखनेवाले, श्रद्धा से —आस्तिकबुद्धि से युक्त हुए (उनका) पूजन करते हैं, हे कुन्तीपुत्र! वे भी मेरा ही पूजन करते हैं (परंतु) अविधिपूर्वक (करते हैं)। अविधि अज्ञान को कहते हैं, सो वे अज्ञानपूर्वक मेरा पूजन करते हैं ॥ २३ ॥

उनका पूजन करना अविधिपूर्वक कैसे है ? सो कहते हैं कि—

तात्पर्य पढ़ें

ये अपि अन्यदेवताभक्ता अन्यासु देवतासु भक्ता अन्यदेवताभक्ताः सन्तो यजन्ते पूजयन्ते श्रद्धया आस्तिक्यबुद्ध्या अन्विता अनुगताः ते अपि माम् एव कौन्तेय यजन्ति अविधिपूर्वकम् अविधिः अज्ञानं तत्पूर्वकम् अज्ञानपूर्वकं यजन्ते इत्यर्थः ॥ २३ ॥

कस्मात् ते अविधिपूर्वकं यजन्ते इति उच्यते यस्मात्—