अपि चेत्सुदुराचारो भजते मामनन्यभाक् ।
साधुरेव स मन्तव्यः सम्यग्व्यवसितो हि सः ॥ ३० ॥
साधुरेव स मन्तव्यः सम्यग्व्यवसितो हि सः ॥ ३० ॥
api cetsudurācāro bhajate māmananyabhāk .
sādhureva sa mantavyaḥ samyagvyavasito hi saḥ .. 30 ..
यदि कोई सुदुराचारी अर्थात् अतिशय बुरे आचरणवाला मनुष्य भी अनन्य प्रेम से युक्त हुआ मुझ (परमेश्वर)-को भजता है तो उसे साधु ही मानना चाहिये अर्थात् उसे यथार्थ आचरण करनेवाला ही समझना चाहिये; क्योंकि वह यथार्थ निश्चययुक्त हो चुका है—उत्तम निश्चयवाला हो गया है ॥ ३० ॥
आन्तरिक यथार्थ निश्चय की शक्ति से बाहरी दुराचारिता को छोड़कर—
तात्पर्य पढ़ें
अपि चेद् यद्यपि सुष्ठु दुराचारः सुदुराचारः अतीव कुत्सिताचारः अपि भजते माम् अनन्यभाग् अनन्यभक्तिः सन् साधुः एव सम्यग्वृत्त एव स मन्तव्यो ज्ञातव्यः सम्यग् यथावद् व्यवसितो हि यस्मात् साधूनिश्चयः सः ॥ ३० ॥
उत्सृज्य च बाह्यां दुराचारताम् अन्तःसम्यग्व्यवसायसामर्थ्यात् —