शान्तिपाठ
सह नौ भुनक्तु ।
सह वीर्यं करवावहै ।
तेजस्वि नावधीतमस्तु ।
मा विद्विषावहै ।
ॐ शान्तिः! शान्तिः!! शान्तिः!!!
oṃ saha nāvavatu .
saha nau bhunaktu .
saha vīryaṃ karavāvahai .
tejasvi nāvadhītamastu .
mā vidviṣāvahai .
oṃ śāntiḥ! śāntiḥ!! śāntiḥ!!!
शान्तिपाठ
इति श्रीमत्परमहंसपरिव्राजकाचार्यगोविन्दभगवत्पूज्यपादशिष्यश्रीमदाचार्यश्रीशङ्करभगवतः कृतौ कठोपनिषद्भाष्ये द्वितीयाध्याये तृतीया वल्ली समाप्ता ॥ ३ ॥ (६)
सह नौ भुनक्तु ।
सह वीर्यं करवावहै ।
तेजस्वि नावधीतमस्तु मा विद्विषावहै ॥
१९ ॥
ॐ शान्तिः! शान्तिः!! शान्तिः!!!
oṃ saha nāvavatu .
saha nau bhunaktu .
saha vīryaṃ karavāvahai .
tejasvi nāvadhītamastu mā vidviṣāvahai ..
19 ..
oṃ śāntiḥ! śāntiḥ!! śāntiḥ!!!
संस्कृत भाष्य पढ़ें
सह नावाववतु पालयतु विद्यास्वरूपप्रकाशनेन । कः? स एव परमेश्वर उपनिषत्प्रकाशितः । किं च सह नौ भुनक्तु तत्फलप्रकाशनेन नौ पालयतु ।
सहैवावां विद्याकृतं वीर्यं सामर्थ्यं करवावहै निष्पादयावहै । किं च तेजस्वि नौ तेजस्विनोरावयोर्यदधीतं तत्स्वधीतमस्तु । अथवा तेजस्वि नावावाभ्यां यदधीतं तदतीव तेजस्वि वीर्यवदस्तु इत्यर्थः । मा विद्विषावहै शिष्याचार्यावन्योन्यं प्रमादकृतान्यायाध्ययनाध्यापनदोषनिमित्तं द्वेषं मा करवावहै इत्यर्थः । शान्तिः शान्तिः शान्तिरिति त्रिर्वचनं सर्वदोषोपशमनार्थमित्योमिति ॥ १९ ॥
इति कठोपनिषदि द्वितीयोऽध्यायः समाप्तः ॥ २ ॥
॥ हरिः ॐ तत्सत् ॥