वल्ली 1 अनुवाक 5 - मन्त्र 1

भूर्भुवः सुवरिति वा एतास्तिस्रो व्याहृतयः ।
तासामु ह स्मैतां चतुर्थीं माहाचमस्यः प्रवेदयते ।
मह इति ।
तद्ब्रह्म ।
स आत्मा ।
अङ्गान्यन्या देवताः ।
भूरिति वा अयं लोकः ।
भुव इत्यन्तरिक्षम् ।
सुवरित्यसौ लोकः ॥ १ ॥

bhūrbhuvaḥ suvariti vā etāstisro vyāhṛtayaḥ .
tāsāmu ha smaitāṃ caturthīṃ māhācamasyaḥ pravedayate .
maha iti .
tadbrahma .
sa ātmā .
aṅgānyanyā devatāḥ .
bhūriti vā ayaṃ lokaḥ .
bhuva ityantarikṣam .
suvarityasau lokaḥ .. 1 ..