विज्ञानं ब्रह्मेति व्यजानात् ।
विज्ञानाद्ध्येव खल्विमानि भूतानि जायन्ते ।
विज्ञानेन जातानि जीवन्ति ।
विज्ञानं प्रयन्त्यभिसंविशन्तीति ।
तद्विज्ञाय पुनरेव वरुणं पितरमुपससार ।
अधीहि भगवो ब्रह्मेति ।
तग्ँहोवाच ।
तपसा ब्रह्म विजिज्ञासस्व ।
तपो ब्रह्मेति ।
स तपोऽतप्यत ।
स तपस्तप्त्वा ॥ १ ॥
विज्ञानाद्ध्येव खल्विमानि भूतानि जायन्ते ।
विज्ञानेन जातानि जीवन्ति ।
विज्ञानं प्रयन्त्यभिसंविशन्तीति ।
तद्विज्ञाय पुनरेव वरुणं पितरमुपससार ।
अधीहि भगवो ब्रह्मेति ।
तग्ँहोवाच ।
तपसा ब्रह्म विजिज्ञासस्व ।
तपो ब्रह्मेति ।
स तपोऽतप्यत ।
स तपस्तप्त्वा ॥ १ ॥
vijñānaṃ brahmeti vyajānāt .
vijñānāddhyeva khalvimāni bhūtāni jāyante .
vijñānena jātāni jīvanti .
vijñānaṃ prayantyabhisaṃviśantīti .
tadvijñāya punareva varuṇaṃ pitaramupasasāra .
adhīhi bhagavo brahmeti .
tag̐hovāca .
tapasā brahma vijijñāsasva .
tapo brahmeti .
sa tapo’tapyata .
sa tapastaptvā .. 1 ..
विज्ञान ब्रह्म है—ऐसा जाना । क्योंकि निश्चय विज्ञान से ही ये सब जीव उत्पन्न होते हैं, उत्पन्न होने पर विज्ञान से ही जीवित रहते हैं और फिर मरणोन्मुख होकर विज्ञान में ही प्रविष्ट हो जाते हैं । ऐसा जानकर वह फिर पिता वरुण के समीप आया [और बोला—] ‘भगवन्! मुझे ब्रह्म का उपदेश कीजिये ।’ वरुण ने उससे कहा—‘तू तप के द्वारा ब्रह्म को जानने की इच्छा कर । तप ही ब्रह्म है ।’ तब उसने तप किया और तप करके— ॥ १ ॥
इति भृगुवल्ल्यां पञ्चमोऽनुवाकः ॥ ५ ॥
षष्ठ अनुवाक
आनन्द ही ब्रह्म है—ऐसा भृगु का निश्चय करना तथा इस भार्गवी वारुणी विद्या का महत्त्व और फल
आनन्दो ब्रह्मेति व्यजानात् ।
आनन्दाद्ध्येव खल्विमानि भूतानि जायन्ते ।
आनन्देन जातानि जीवन्ति ।
आनन्दं प्रयन्त्यभिसंविशन्तीति ।
सैषा भार्गवी वारुणी विद्या परमे व्योमन् प्रतिष्ठिता ।
स य एवं वेद प्रतितिष्ठति ।
अन्नवानन्नादो भवति ।
महान् भवति, प्रजया
आनन्दाद्ध्येव खल्विमानि भूतानि जायन्ते ।
आनन्देन जातानि जीवन्ति ।
आनन्दं प्रयन्त्यभिसंविशन्तीति ।
सैषा भार्गवी वारुणी विद्या परमे व्योमन् प्रतिष्ठिता ।
स य एवं वेद प्रतितिष्ठति ।
अन्नवानन्नादो भवति ।
महान् भवति, प्रजया
ānando brahmeti vyajānāt .
ānandāddhyeva khalvimāni bhūtāni jāyante .
ānandena jātāni jīvanti .
ānandaṃ prayantyabhisaṃviśantīti .
saiṣā bhārgavī vāruṇī vidyā parame vyoman pratiṣṭhitā .
sa ya evaṃ veda pratitiṣṭhati .
annavānannādo bhavati .
mahān bhavati, prajayā